श्री माधवान्ग्री जलजद्वय नित्य सेवा प्रेमा विलाशय परान्गुश पादभक्तम् ।
कामादि दोष हरमात्म पदस्रुतानाम् रामानुजम् यतिपतिम् प्रणमामि मूर्ध्ना ॥
ஸ்ரீரங்கராஜ சரணாம்புஜ ராஜஹம்ஸம்
ஸ்ரீமத் பராங்குச பதாம்புஜ ப்ருங்கராஜம் |
ஸ்ரீபட்டநாத பரகால முகாப்ஜ மித்ரம்
ஸ்ரீவத்ஸசிஹ்ந சரணம் யதிராஜமீடே ||
वाचा यतीन्ड्र मनसा वपुषा च युष्मत्पादारविन्दयुगलं भजतां गुरूणाम् ।
कूराधिनाथकुरुकेशमुखाध्यपुंसां पादानुचिन्तनपरस्सततं भवेयम् ॥ 3
नित्यं यतीन्द्र तव दिव्यवपुस्स्म्रुतौ मे सक्तम् मनो भवतु वाग्गुणकीर्तनेSसौ
क्रुत्यञ्च दास्यकरणं तु करद्वयस्य व्रुत्त्यन्तरेSस्तु विमुखं करणत्रयञ्च ॥ (4)
अष्टाक्षराख्यमनुराजपदत्रयार्थनिष्ठां ममात्र वितराध्य यतीन्द्रनाथ ।
शिष्टाग्रगण्यजनसेव्यभवतपदाब्जे ह्रुष्टास्तु नित्यमनुभूय ममास्य बुद्धिः ॥ (5)
अल्पापि मे न भवदीयपदाब्जभक्तिः शब्दादिभोगरुचिरन्वहमेधते हा।
मत्पापमेव हि निदानममुष्य नान्यत् तद्वारयार्य यतिराज दयैकसिन्धो ॥ (6)
व्रुत्या पशुर्नरवपुस्त्वहमीद्रुशोSपि श्रुत्यादिसिद्धनिखिलात्मगुणाश्रयोSयम् ।
इत्यादरेण क्रुतिनोSपि मिथः प्रवक्तुम् अध्यापि वन्चनपरोSत्र यतीन्द्र! वर्ते ॥ (7)
दुःखावहोहमनिशं तव दुष्टचेष्टः शब्दादिभोगनिरतः शरणागताख्यः ।
त्वत्पादभक्त इव शिष्टजनैघमध्ये मिथ्या चरामि यतिराज! ततोSस्मि मूर्खः ॥ (8)
नित्यम् त्वहं परिभवामि गुरुं च मन्त्रं तद्देवतामपि न किन्चिदहो बिभेमि ।
इत्थं शठोSप्यशठवद्भवदीयसङ्घे ह्रुष्टश्चरामि यतिराज! ततोSस्मि मूर्खः ॥ (9)
हा हन्त हन्त मनसा क्रियया च वाचा योहं चरामि सततं त्रिविधापचारान् ।
सोहं तवाप्रियकरः प्रियक्रुद्वदेव कालं नयामि यतिराज! ततोस्मि मूर्खः ॥ (10)
पापे क्रुते यदि भवन्ति भयानुतापलज्जाः पुनः करणमस्य कथं घटेत ।
मोहेन मे न भवतीह भयादिलेशः तस्मात् पुनः पुनरघं यतिराज कुर्वे ॥ (11)
अन्तर्बहिस्सकलवस्तुषु सन्तमीशम् अन्धः पुरस्स्थितमिवाहमवीक्षमाणः ।
कन्दर्पवश्यह्रुदयस्सततं भवामि हन्त त्वदग्रगमनस्य यतीन्द्र नार्हः ॥ (12)
तापत्रयीजनितदुःखनिपातिनोSपि देहस्थितौ मम् रुचिस्तु न तन्निव्रुत्तौ ।
एतस्य कारणमहो मम पापमेव नाथ! त्व्मेव हर तध्यतिराज! शीघ्रम् ॥ (13)
वाचामगोचरमहागुणदेशिकाग्रयकूराधिनाथकथिताकिलनैच्यपात्रम् ।
एषोहमेव न् पुनर्जगतीद्रुशस्तद् रामानुजार्य करुणैव तु मद्गतिस्ते ॥ (14)
शुद्धात्मयामुनगुरूत्तमकूरनाथ भट्टाख्यदेशिकवरोक्तसमस्तनैच्यम् ।
अध्यास्त्यसन्ङुचितमेव मयीह लोके तस्माध्यतीन्द्र! करुणैव तु मद्गतिस्ते ॥ (15)
शब्दादिभोगविषया रुचिरस्मदीया नष्टा भवत्विह भवद्द्यया यतीन्द्र ! ।
त्वद्दासदासगणनाचरमावधौ यः तद्दासतैकरसताSविरता ममास्तु ॥ (16)
श्रुत्यग्रवेध्यनिजदिव्यगुणस्वरूपः प्रतयक्षतामुपगतस्त्विह रङ्गराजः ।
वश्यस्सदा भवति ते यतिराज तस्माच्छक्तः स्वकीयजनपापविमोचने त्वम् ॥ (17)
कालत्रयेSपि करणत्रयनिर्मितातिपापक्र्यस्य शरणं भगवत्क्षमैव ।
सा च त्वयैव कमलारमणेSर्थिता यत् क्षेमस्स एव हि यतीन्द्र! भवच्छ्रितानाम् ॥ (18)
श्रीमन्यतीन्द्र! तव दिव्यपदाब्जसेवां श्रीशैलनाथकरुणापरिणामदत्ताम् ।
तामन्वहं मम विवर्धय नाथ! तस्याः कामं विरुद्धमखिलञ्च निवर्तय त्वम् ॥ (19)
विज्न्यपनं यदिदमद्द्य तु मामकीनम् अङ्गिकुरुष्व यतिराज! दयाम्बुराशे! ।
अग्न्योSयमात्मगुणलेशविवर्जितश्च तमादन्नयशरणो भवतीति मत्वा ॥ (20)