अनिष्टादिकारिणामपि च श्रुतम्
संयमने त्वनुभूयेतरेषामारोहावरोहौ, तद्गतिदर्शनात्
स्मरन्ति च
अपि सप्त
तत्रापि तद्व्यापारादविरोधः
विद्याकर्मणोरिति तु प्रकृतत्वात्
न तृतीये, तथोपलब्धेः
स्मर्यतेऽपि च लोके
दर्शनाच्च
तृतीयशब्दावरोधः संशोकजस्य