तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम्
त्र्यात्मकत्वात्तु भूयस्त्वात्
प्राणगतेश्च
अग्न्यादिगतिश्रुतेरिति चेन्न, भाक्तत्वात्
प्रथमेऽश्रवणादिति चेन्न, ता एव ह्युपपत्तेः
अश्रुतत्वादिति चेन्न, इष्टादिकारिणां प्रतीतेः
भाक्तं वाऽनात्मवित्त्वात्; तथाहि दर्शयति