जगद्व्यापारवर्जं प्रकरणादसंनिहितत्वाच्च
प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः
विकारावर्ति च , तथाहि स्थितिमाह
दर्शयतश्चैवं प्रत्यक्षानुमाने
भोगमात्रसाम्यलिङ्गाच्च
अनावृत्तिः शब्दादनावृत्तिः शब्दात्