अभावं बादरिराह ह्येवम्
भावं जैमिनिर्विकल्पामननात्
द्वादशाहवदुभयविधं बादरायणोऽतः
तन्वभावे संध्यवदुपपत्तेः
भावे जाग्रद्वत्
प्रदीपवदावेशस्तथाहि दर्शयति
स्वाप्ययसंपत्योरन्यतरापेक्षमाविष्कृतं हि