नमो ऽस्त्व् अनन्ताय सहस्र-मूर्तये सहस्र-पादाक्षि-शिरोरु-बाहवे ।
सहस्र-नाम्ने पुरुषाय शाश्वते सहस्र-कोटि-युग-धारिणे नमः