क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकते मौक्तिकानां । मालाकॢप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः । शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूषवर्षै\- । रानन्दी नः पुनीयादरिनलिनगदाशङ्खपाणिर्मुकुन्दः
भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्रसूर्यौ च नेत्रे । कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः । अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः । चित्रं रंरम्यते तं त्रिभुवनवपुषं विष्णुमीशं नमामि
ॐ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं । विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं । वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्
मेघश्यामं पीतकौशेयवासं । श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् । पुण्योपेतं पुण्डरीकायताक्षं । विष्णुं वन्दे सर्वलोकैकनाथम्
नमः समस्तभूतानामादिभूताय भूभृते । अनेकरूपरूपाय विष्णवे प्रभविष्णवे
सशङ्खचक्रं सकिरीटकुण्डलं । सपीतवस्त्रं सरसीरुहेक्षणम् । सहारवक्षःस्थलकौस्तुभश्रियं । नमामि विष्णुं शिरसा चतुर्भुजम्
छायायां पारिजातस्य हेमसिंहासनोपरि । आसीनमम्बुदश्याममायताक्षमलंकृतम् । चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कितवक्षसं । रुक्मिणीसत्यभामाभ्यां सहितं कृष्णमाश्रये