ॐ शिरसि वेदव्यासर्षये नमः । मुखे अनुष्टुप्।ह्छन्दसे नमः । हृदि श्रीकृष्णपरमात्मदेवतायै नमः । गुह्ये अमृतांशूद्भवो भानुरिति बीजाय नमः । पादयोर्देवकीनन्दनः स्रष्टेति शक्तये नमः । सर्वाङ्गे शङ्खभृन्नन्दकी चक्रीति कीलकाय नमः । करसम्पूटे मम श्रीकृष्णप्रीत्यर्थे जपे विनियोगः
ॐ विश्वं विष्णुर्वषट्।ह्कार इत्यङ्गुष्ठाभ्यां नमः । अमृतांशूद्भवो भानुरिति तर्जनीभ्यां नमः । ब्रह्मण्यो ब्रह्मकृद्।ह्ब्रह्मेति मध्यमाभ्यां नमः । सुवर्णबिन्दुरक्षोभ्य इत्यनामिकाभ्यां नमः । निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः । रथाङ्गपाणिरक्षोभ्य इति करतलकरपृष्ठाभ्यां नमः
ॐ विश्वं विष्णुर्वषट्।ह्कार इति हृदयाय नमः । अमृतांशूद्भवो भानुरिति शिरसे स्वाहा । ब्रह्मण्यो ब्रह्मकृद्।ह्ब्रह्मेति शिखायै वषट् । सुवर्णबिन्दुरक्षोभ्य इति कवचाय हुम् । निमिषोऽनिमिषः स्रग्वीति नेत्रत्रयाय वौषट् । रथाङ्गपाणिरक्षोभ्य इत्यस्त्राय फट्