तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः
न चाधिकारिकमपि पतनानुमानात्तदयोगात्
उपपुर्वमपीत्येके भावमशनवत्तदुक्तम्
बहिस्तूभयथापि स्मृतेराचाराच्च