पुरुषार्थोऽतः शब्दादिति बादरायणः
शेषात्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः
आचारदर्शनात्
तच्छ्रुतेः
समन्वारम्भणात्
तद्वतो विधानात्
नियमाच्च
अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात्
तुल्यं तु दर्शनम्
असार्वत्रिकी
विभागः शतवत्
अध्ययनमात्रवतः
नाविशेषात्
स्तुतयोऽनुमतिर्वा
फामकारेण चैके
उपमर्दं च
ऊर्ध्वरेतः सु च शब्दे हि
परामर्शं जैमिनिरचोदनाचापवदति हि
अनुष्ठेयं बादरायणः साम्यश्रुतेः
विधिर्वा धारणवत्