आनन्दादयः प्रधानस्य
प्रियशिरस्त्वाद्यप्राप्तिः; उपचयापचयौ हि भेदे
इतरे त्वर्थसामान्यात्
आध्यानाय प्रयोजनाभावात्
आत्मशब्दाच्च
आत्मगृहीतिरितरवदुत्तरात्
अन्वयादिति चेत्, स्यादवधारणात्