पूर्वविकल्पः प्रकरणात्स्याक्रिया मानसवत्
अतिदेशाच्च
विद्यैव तु निर्धारणाद्दर्शनाच्च
श्रुत्यदिवलीयस्त्वाच्च न बाधः
अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद् दृष्टश्च तदुक्तम्
न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुवन्धः