न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि
भेदादिति चेन्न, प्रत्येकमतद्वचनात्
अपि चैवमेके
अरूपवदेव हि, तत्प्रधानत्वात्
प्रकाशवच्चावैयर्थ्यात्
आह च तन्मात्रम्
दर्शयति चाथो अपि स्मर्यते
अत एव चोपमा सूर्यकादिवत्
अम्बुवदग्रहणात्तु न तथात्वम्
वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसाम़ञ्जस्यादेवं दर्शनाच्च
प्रकृतैतावत्त्वं हि प्रतिषेधति; ततो ब्रवीति च भूयः
तदव्यक्तमाह हि
अपि संराधने प्रत्यक्षानुमानाभ्याम्
प्रकाशादिवच्चावैशेष्यम् ; प्रकाशश्च कर्मण्यभ्यासात्
अतोऽनन्तेन; तथाहि लिङ्गम्