आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च
सूक्ष्मं तु तदर्हत्वात्
तदधीनत्वादर्थवत्
ज्ञेयत्वावचनाच्च
वदतीति चेन्न प्राज्ञो हि प्रकरणात्
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च
महद्वच्च