तदुपर्यपि बादरायणः सम्भवात्
विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात्
शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम्
अत एव च नित्यत्वम्
समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च