वैश्वानरस्साधरणशब्दविशेषात्
स्मर्यमाणमनुमानं स्यादिति
शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते
अत एव न देवता भूतञ्च
साक्षादप्यविरोधं जैमिनिः
अभिव्यक्तेरित्याश्मरथ्यः
अनुस्मृतेर्बादरिः
सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति
आमनन्ति चैनमस्मिन्