आनन्दमयोऽभ्यासात्
विकारशब्दान्नेति चेन्न प्राचुर्यात्
तद्धेतुव्यपदेशाच्च
मान्त्रवर्णिकमेव च गीयते
नेतरोऽनुपपत्तेः
भेदव्यपदेशाच्च
कामाच्च नानुमानापेक्षा
अस्मिन्नस्य च तद्योगं शास्ति