कार्यं बादरिरस्य गत्युपपत्तेः
विशेषितत्वाच्च
सामीप्यात्तु तद्व्यपदेशः
कार्यात्यये तदध्यक्षेण सहातः परमभिधानात्
स्मृतेश्च
परं जैमिनिर्मुख्यत्वात्
दर्शनाच्च
न च कार्ये प्तत्यभिसंधिः
अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश्च
विशेषं च दर्शयति