समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य
तदापीतेः संसारव्यपदेशात्
सूक्ष्मं प्रमाणतश्च तथोपलब्धेः
नोपमर्देनातः
अस्यैव चोपपत्तेरूष्मा
प्रतिषेधादिति चेन्न शारीरात् स्पष्टो ह्येकेषाम्
स्मर्यते च