अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके
मन्त्रवर्णात्
अपि स्मर्यते
प्रकाशादिवत्तु नैवं परः
स्मरन्ति च
अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत्
असन्ततेश्चाव्यतिकरः
आभासा एव च
अदृष्टानियमात्
अभिसन्ध्यादिष्वपि चैवम्
प्रदेशभेदादिति चेन्नान्तर्भावात्