ज्ञोऽत एव
उत्क्रान्तिगत्यागतीनाम्
स्वात्मना चोत्तरयोः
नाणुरतच्छ्रुतेः इति चेत् न इतराधिकारात्
स्वशब्दोन्मानाभ्यां च
अविरोधश्चन्दनवत्
अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि
गुणाद्वाऽऽलोकवत्
व्यतिरेको गन्धवत् तथा च दर्शयति
पृथगुपदेशात्
तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत्
यावदात्मभावित्वाच्च न दोषः तद्दर्शनात्
पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात्
नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा