न वियदश्रुतेः
अस्ति तु
गौण्यसंभवाच्छब्दाच्च
स्याच्चैकस्य ब्रह्मशब्दवत्
प्रतिज्ञाऽहानिरव्यतिरेकात्
शब्देभ्यः
यावद्विकारं तु विभागो लोकवत्
एतेन मातरिश्वा व्याख्यातः
असंभवस्तु सतोऽनुपपत्तेः