समुदाय उभयहेतुकेऽपि तदप्राप्तिः
इतरेतरप्रत्ययत्वादुपपन्नमिति चेन्न संघातभावानिमित्तत्वात्
उत्तरोत्पादे च पूर्वनिरोधात्
असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा
प्रतिसंख्याऽप्रतिसंख्यानिरोधाऽप्राप्तिरविच्छेदात्
उभयथा च दोषात्
आकाशे चाविशेषात्
अनुस्मृतेश्च
नासतोऽदृष्टत्वात्
उदासीनानामपि चैवं सिद्धिः