रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च
पयोऽम्बुवच्चेत्तत्रापि
व्यतिरेकानवस्थितेश्चानपेक्षत्वात्
अन्यत्राभावाच्च न तृणादिवत्
पुरुषाश्मवदिति चेत्तथापि
अङ्गित्वानुपपत्तेश्च
अन्यथानुमितौ च ज्ञशक्तिवियोगात्
अभ्युपगमेऽप्यर्थाभावात्
विप्रतिषेधाच्चासमञ्जसम्