न विलक्षणत्वादस्य तथात्वं च शब्दात्
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्
दृश्यते तु
असदिति चेन्न प्रतिषेधमात्रत्वात्
अपीतौ तद्वत्प्रसङ्गादसमञ्जसम्
न तु दृष्टान्तभावात्
स्वपक्षदोषाच्च
तर्काप्रतिष्ठानादपि
अन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः